| YouTube Channel

अगस्त्योदयः अगात्मजा अगाधः (agastyodayaH agAtmajA agAdhaH)

 
E Bharati Sampat
Sanskrit
(पु) अगस्त्यस्य नक्षत्रस्य उदयः। आकाशे सौरभाद्रस्य सप्तदशदिने नक्षत्ररूपेण अगस्त्यमुनेः उदयः। अगस्त्योदये जलानि प्रसीदन्ति ‘प्रससादोद्यादम्भः कुम्भयोनेर्महौजसः’ रघुः४.२१। (स्त्री) अगस्य आत्मजा पर्वतस्य पुत्री, पार्वती (वि) गाधः स्थितिः अत्र १.अतिगम्भीरः, अतलस्पर्शः, अतिनिम्नः। ‘शिथिलवसुमगाधे मग्नमापत्पयोधौ’ किरा०१.४६। (न) २.श्वभ्रम्, रन्ध्रम् ‘अगाधमतलस्पर्शे त्रिषु श्वभ्रे नपुंसकम्’ मेदिनी